|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.32. अध्यायः 032
Mahabharata - Drona Parva - Chapter Topics
सङ्कुलयुद्धवर्णनम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
7-32-0(46129)
सञ्जय उवाच। 7-32-0x(4331)
प्रतिघातं तु सैन्यस्य नामृष्यत वृकोदरः।
सोऽभ्याहनद्गुरुं षष्ट्या कर्णं च दशभिः शरैः॥ 7-32-1(46130)
तस्य द्रोणः शितैर्बाणैस्तीक्ष्णधारैरजिह्मगैः।
जीवितान्तमभिप्रेप्सुर्मर्मण्याशु जघान ह॥ 7-32-2(46131)
आनन्तर्यमभिप्रेप्सुः षड्विंशत्या शमार्पयत्।
कर्णो द्वादशभिर्बाणैरश्वत्थामा च सप्तभिः॥ 7-32-3(46132)
षङ्भिर्दुर्योधनो राजा तत एनमथाकिरत्।
भीमसेनोऽपि तान्सर्वान्प्रत्यविध्यन्महाबलः॥ 7-32-4(46133)
द्रोणं पञ्चाशतेषूणां कर्णं च दशभिः शरैः।
दर्योधनं द्वादशभिर्दौणिमष्टाभिराशुगैः॥ 7-32-5(46134)
आरावं तुमुलं कुर्वन्नभ्यवर्तत तान्रणे।
तस्मिन्सन्त्यति प्रामान्मृत्युसाधारणीकृते॥ 7-32-6(46135)
अजातशत्रुस्तान्योधान्भीमं त्रातेत्यचोदयत्।
ते ययुर्भीमसेनस्य समीपममितौजसः॥ 7-32-7(46136)
युयुधानप्रभृतयो माद्रीपुत्रौ च पाण्डवौ।
ते समेत्य सुसंरब्धाः सहिताः पुरुषर्षभाः॥ 7-32-8(46137)
महेष्वासवरैर्गुप्ता द्रोणानीकं बिभित्सवः।
समापेतुर्महावीर्या भीमप्रभृतयो रथाः॥ 7-32-9(46138)
तान्प्रत्यगृह्णादव्यग्रो द्रोणोऽपि रथिनां वरः।
महारथानतिबलान्वीरान्समरयोधिनः॥ 7-32-10(46139)
बाह्यं मृत्युभयं कृत्वा तावकान्पाण्डवा ययुः।
सादिनः सादिनोऽब्यघ्नंस्तथैव रथिनो रथान्॥ 7-32-11(46140)
असिशक्त्यृष्टिसङ्घातैर्युद्धमासीत्परश्वथैः।
प्रकृष्टमसियुद्धं च बभूव कटुकोदयम्॥ 7-32-12(46141)
कुञ्जराणां च सम्पाते युद्धमासीत्सुदारुणम्।
अपतत्कुञ्जरादन्यो हयादन्यस्त्ववाक्शिराः॥ 7-32-13(46142)
नरो बाणविनिर्भिन्नो रथादन्यश्च मारिष।
तत्रान्यस्य च सम्पर्दे पतितस्य विवर्मणः॥ 7-32-14(46143)
शिरः प्रध्वंसयामास वक्षस्याक्रम्य कुञ्जरः।
अपरांश्चापरेऽमृद्रन्वारणाः पतितान्नरान्॥ 7-32-15(46144)
विषाणैश्चावनिं गत्वा व्यभिन्दन्रथिनो बहून्।
नरान्त्रैः केचिदपरे विषाणालग्नसंश्रयैः॥ 7-32-16(46145)
बभ्रमुः समरे नागा मृद्रन्तः शतशो नरान्।
कार्ष्णायसतनुत्राणान्नराश्वरथकुञ्जरान्॥ 7-32-17(46146)
पतितान्पोथयाञ्चक्रुर्द्विपाः स्थूलनलानिव।
गृध्रपत्राधिवासांसि शयनानि नारधिपाः॥ 7-32-18(46147)
हीमन्तः कालसम्पर्कात्सुदुःस्वान्यनुशेरते।
हन्ति स्मात्र पिता पुत्रं रथेनाभ्येत्य संयुगे॥ 7-32-19(46148)
पुत्रश्च पितरं मोहान्निर्मर्यादमवर्तत।
रथो भग्नो ध्वजश्छिन्नश्छत्रमुर्व्यों निपातितम्॥ 7-32-20(46149)
युगार्धं च्छिन्नमादाय प्रदुद्राव तथा हयः।
सासिर्बाहुर्निपतितः शिरश्छिन्नं सकुण्डलम्॥ 7-32-21(46150)
गजेनाक्षिप्य बलिना रथः सञ्चूर्णितः क्षितौ।
रथिना ताडितो नागो नाराचेनापतत्क्षितौ॥ 7-32-22(46151)
सारोहश्चापतद्वाजी गेजेनाभ्याहतो भृशम्।
निर्मर्यादं महद्युद्धमवर्तत सुदारुणम्॥ 7-32-23(46152)
हा तात हा पुत्र सखे क्वासि तिष्ठ क्व धावसि।
प्रहराहर जह्मेनं स्मितश्वेडितगर्जितैः।
इत्येवमुच्चैरत्यर्थं श्रूयन्ते विविधा गिरः॥ 7-32-24(46153)
नरस्याश्वस्य नाग्स्य समसञ्जत शोणितम्।
उपाशाम्यद्रजो भौमं भीरून्कश्मलमाविशत्॥ 7-32-25(46154)
चक्रेण चक्रमासाद्य वीरो वीरस्य संयुगे।
अतीतेषुपथे काले जहार गदया सिरः॥ 7-32-26(46155)
असीत्केशपरामर्शो मुष्टियुद्धं च दारुणम्।
नखैर्दन्तैश्च सूराणामद्वीपे द्वीपमिच्छताम्॥ 7-32-27(46156)
तत्राच्छिद्यत शूरस्य सखङ्गो बाहुरुद्यतः।
सधुनश्चापरस्यापि सशरः साङ्कुशस्तथा॥ 7-32-28(46157)
आक्रोशदन्यमन्योऽत्र तथाऽन्यो विमुखोऽद्रवत्।
अन्यः प्राप्तस्य चान्यस्य शिरः कायादपाहरत्॥ 7-32-29(46158)
सशब्दमद्रवच्चान्यः शब्दादन्योऽत्रसद्भृशम्।
स्वानन्योऽथ परानन्यो जघान निशितैः शरैः॥ 7-32-30(46159)
गिरिशृङ्गोपमश्चात्र नाराचेन निपातितः।
मातङ्गो न्यपतद्भूमौ नदीरोध इवोष्णगे॥ 7-32-31(46160)
तथैव रथिनं नागः क्षरन्गिरिरिवारुजन्।
अभ्यतिष्ठत्पदा भूमौ सहाश्वं सहसारथिम्॥ 7-32-32(46161)
शूरान्प्रहरतो दृष्ट्वा कृताश्स्त्रान्रुधिरोक्षितान्।
बहूनप्याविशन्मोहो भीरून्हृदयदुर्बलान्॥ 7-32-33(46162)
सर्वमाविग्नमभवन्न प्राज्ञायत किञ्चन।
सैन्येन रजसा ध्वस्तं निर्मर्यादमवर्तत॥ 7-32-34(46163)
ततः सेनापतिः शीघ्रमयं क्राल इति ब्रुवन्।
नित्याभित्वरितानेव त्वरयामास पाण्डवान्॥ 7-32-35(46164)
कुर्वन्तः शासनं तस्य पाण्डवा बाहुशालिनः।
सरो हंसा इवापेतुर्घ्नन्तो द्रोणरथं प्रति॥ 7-32-36(46165)
गृह्णीताद्रवतान्योन्यं विभीता विनिकृन्तत।
इत्यासीत्तुमुलः शब्दो दुर्धर्षस्य रथं प्रति॥ 7-32-37(46166)
ततो द्रोणः कृपः कर्णो द्रौणी राजा जयद्रथः।
विन्दानुविन्दावावन्त्यौ शल्यश्चैतान्न्यवारयन्॥ 7-32-38(46167)
ते त्वार्यधर्मसंरब्धा दुर्निवारा दुरासदाः।
शरार्ता न जहुर्द्रोणं पाञ्चालाः पाण्डवै सह॥ 7-32-39(46168)
ततो द्रोणोऽतिसंक्रुद्धो विसृजञ्शतशः शरान्।
चेदिपाञ्चालपाण्डूनामकरोत्कदनं महत्॥ 7-32-40(46169)
तस्य ज्यातलनिर्घोषः शुश्रुवे दिक्षं मारिष।
वज्रसंह्रादसङ्काशस्त्रासयन्मानवान्बहून्॥ 7-32-41(46170)
एतस्मिन्नन्तरे जिष्णुर्जित्वा संशप्तकान्बहून्।
अभ्ययात्तत्र यत्रासौ द्रोणः पाण्डून्प्रमर्दति॥ 7-32-42(46171)
ताञ्शरौघान्महावर्ताञ्शोणितोदान्महाहदान्।
तीर्णः संशप्तकान्हत्वा प्रत्यदृश्यत फल्गुनः॥ 7-32-43(46172)
तस्य कीर्तिमतो लक्ष्म सूर्यप्रतिमतेजसः।
दीप्यमानमपश्याम तेजसा वानरध्वजम्॥ 7-32-44(46173)
संशप्तकसमुद्रं तमुच्छोष्यास्त्रगभस्तिभिः।
स पाण्डवयुगान्तार्कः कुरूनप्यभ्यतीतपत्॥ 7-32-45(46174)
प्रददाह कुरून्सर्वानर्जुनः शस्त्रतेजसा।
युगान्ते सर्वभूतानि धूमकेतुरिवोत्थितः॥ 7-32-46(46175)
तेन बाणसहस्रौधैर्गजाश्वरथयोधिनः।
ताड्यमानाः क्षितिं जग्मुर्मुक्तकेशाःशरार्दिताः॥ 7-32-47(46176)
केचिदार्तस्वनं चक्रुर्विनेशुरपरे पुनः।
पार्थबाणहताः केचिन्निपेतुर्विगतासवः॥ 7-32-48(46177)
तेषामुत्पतितान्कांश्चित्पतितांश्च पराङ्मुखान्।
न जघानार्जुनो योधान्योधव्रतमनुस्मरन्॥ 7-32-49(46178)
ते विकीर्णरथाश्चित्राः प्रायशश्च पराङ्मुखः।
कुरवः कर्णकर्णेति हाहेति च विचुक्रुशुः॥ 7-32-50(46179)
तमाधिरथिराक्रन्दं विज्ञाय शरणैषिणाम्।
मा भैष्टेति प्रतिश्रुत्य ययावभिमुखोऽर्जुनम्॥ 7-32-51(46180)
स भारतरथश्रेष्ठः सर्वभारतहर्षणः।
प्रादुश्चक्रे तदाग्नेयमस्त्रमस्त्रविदां वारः॥ 7-32-52(46181)
तस्य दीप्तशरौघस्य दीप्तचापधरस्य च।
`वारुणेन तदस्त्रेण विधूयाथ धनञ्जयः'।
शरौघाञ्शरजालेन विदुधाव धनञ्जयः॥ 7-32-53(46182)
तथैवाधिरथिस्तस्य बाणाज्ज्वलिततेजसः।
अस्त्रमस्त्रेण संवार्य प्राणदद्विसृजञ्शरान्॥ 7-32-54(46183)
धृष्टद्युम्नश्च भीमश्च सात्यकिश्च महारथः।
विव्यधुः कर्णमासाद्य त्रिभिस्त्रिभिरजिह्मगैः॥ 7-32-55(46184)
अर्जुनास्त्रं तु राधेयः संवार्य शरवृष्टिभिः।
तेषां त्रयाणां चापानि चिच्छेद विशिखैस्त्रिभिः॥ 7-32-56(46185)
ते निकृत्तायुघाः शूरा निर्विषा भुजगा इव।
रथशक्तीः समुत्क्षिप्य भृशं सिंहा इवानदन्॥ 7-32-57(46186)
ता भुजाग्रैर्महावेगा निसृष्टा भुजगोपमाः।
दीप्यमाना महाशक्त्यो जग्मुराधिरथिं प्रति॥ 7-32-58(46187)
ता निकृत्य शरव्रातैस्त्रिभिस्त्रिभिरजिह्मगैः।
ननाद बलवान्कर्णः पार्थाय विसृजञ्शरान्॥ 7-32-59(46188)
अर्जुनश्चापि राधेयं विद्ध्वा सप्तभिराशुगैः।
कर्णादवरजं बाणैर्जघान निशितैः शरैः॥ 7-32-60(46189)
ततः शत्रुंजयं हत्वा पार्थः षङ्भिरजिह्मगैः।
जहार सद्यो भल्लेन विपाटस्य शिरो रथात्॥ 7-32-61(46190)
पश्यतां धार्तराष्ट्राणामेकेनैव किरीटिना।
प्रमुखे सूतपुत्रस्य सोदर्या निहतास्त्रयः॥ 7-32-62(46191)
ततो भीमः समुत्पत्य स्वरथाद्वैनतेयवत्।
वरासिना कर्णपक्षाञ्जधान दश पञ्च च॥ 7-32-63(46192)
पुनस्तु रथमास्थाय धनुरादाय चापरम्।
विव्याध दशभिः कर्णं सूतमश्वांश्च पञ्चभिः॥ 7-32-64(46193)
धृष्टद्युम्नोऽप्यसिवरं चर्म चादाय भास्वरम्।
जघान चन्द्रवर्माणं बृहत्क्षत्रं च नैषधम्॥ 7-32-65(46194)
ततः स्वरथमास्थाय पाञ्चाल्योऽन्यच्च कार्मुकम्।
आदाय कर्णं विव्याध त्रिसप्तत्या नदन्रणे॥ 7-32-66(46195)
शैनेयोऽप्यन्यदादाय धनुरिन्दुसमद्युतिः।
सूतपुत्रं चतुःषष्ट्या विद्ध्वा सिंह इवानदत्॥ 7-32-67(46196)
भल्लाभ्यां साधु मुक्ताभ्यां छित्त्वा कर्णस्य कार्मुकम्।
पुनः कर्णं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत्॥ 7-32-68(46197)
ततो दुर्योधनो द्रोणो राजा चैव जयद्रथः।
निम़ज्जमानं राधेयमुज्जह्रुः सात्यकार्णवात्॥ 7-32-69(46198)
पत्त्यश्वरथमातङ्गास्त्वदीयाः शतशोऽपरे।
कर्णमेवाभ्यधावन्त त्रास्यमानाः प्रहारिणः॥ 7-32-70(46199)
धृष्टद्युम्नश्च भीमश्च सौभद्रोऽर्जुन एव च।
नकुलः सहदेवश्च सात्यकिं जुगुपू रणे॥ 7-32-71(46200)
एवमेष महारौद्रः क्षयार्थं सर्वधन्विनाम्।
तावकानां परेषां च त्यक्त्वा प्राणानभूद्रणः॥
पदातिरथनागाश्वा गजाश्वरथपत्तिभिः।
रथिनो नागपत्त्यश्वैरथ पत्तीरथ द्विपैः॥ 7-32-72(46201)
अश्वैरश्वा गजैर्नागा रथिनो रथिभिः सह।
संयुक्ताः समदृश्यन्त पत्तयश्चापि पत्तिभिः॥
एवं सुकलिलं युद्धमासीत्क्रव्यादहर्षणम्।
महद्भिस्तैरभीतानां यमराष्ट्रविवर्धनम्॥ 7-32-74(46202)
ततो हता नररथवाजिकुञ्जरै
रनेकशो द्विपरथपत्तिवाजिनः।
गजैर्गजा रथिभिरुदायुधा रथा।
हयैर्हयाः पत्तिगणैश्च पत्तयः॥ 7-32-76(46203)
रथैर्द्विपा द्विरदवरैर्महाहया
हयैर्नरा वररथिभिश्च वाजिनः।
निरस्तजिह्वादशनेक्षणाः क्षितौ
क्षयं गताः प्रमथितवर्मभूषणाः॥ 7-32-77(46204)
तथा परैर्बहुकरणैर्वरायुधै-
र्हता गताः प्रतिभयदर्शनाः क्षितिम्।
विपोथिता हयगजपादताडिता
भृशाकुला रथमुखनेमिभिः क्षताः॥ 7-32-78(46205)
प्रमोदने श्वापदपक्षिरक्षसां
जनक्षये वर्तति तत्र दारुणे।
महाबलास्ते कुपिताः परस्परं
निषूदयन्तः प्रविचेरुरोजसा॥ 7-32-79(46206)
ततो बले भृशलुलिते परस्परं
निरीक्षमाणे रुधिरौघसम्प्लुते।
दिवाकरेऽस्तंगिरिमास्थिते शनै
रुभे प्रयाते शिबिराय भारत॥ ॥ 7-32-80(46207)
इति श्रीमन्महाभारते द्रोणपर्वणि संशप्तकवधपर्वणि द्वादशदिवसयुद्धावहारे द्वात्रिंशोऽध्यायः॥ 32 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-32-6 मृत्युसाधारणीकृते मरणतुल्यावस्थां गमिते॥ 5-32-12 कटुकस्य परुषस्योदयो यत्र॥ 5-32-16 अविनं गत्वा अभित्य। विषाणालग्नसंश्रयैः दन्तलग्नैकदेशैः॥ 5-32-18 गृध्रपक्षाधिवासांसि गृध्रपक्षास्तरणानि॥ 5-32-25 समसज्जत घनतामगमत्॥ 5-32-26 अतीतः इषुपथः शरावकाशो यत्र॥ 5-32-27 द्वीपमाश्रयम्॥ 5-32-29 आक्रोशत् आहूतवान्॥ 5-32-32 क्षरन्मदमिति शेषः। रथिनं तथैव सहसारथिं अर्थाद्रथं च पदा आरुजन् भूमौ अभ्यतिष्ठदित्यन्वयः॥ 5-32-37 विभीता अभीताः। दुर्धर्षस्य द्रोणस्य॥ 5-32-39 आर्यधर्मेण संरब्धाः सोद्यमाः॥ 5-32-53 विदुधाव खण्डितवान्॥ 5-32-61 विघातस्य शिर इति क.पाठः॥ 5-32-72 प्राणांस्त्यक्त्वा युध्यतामिति शेषः॥ 5-32-75 अभीतानामभिमुखागतानां भयहीनानां वा॥ 5-32-78 बहुकरणैरनेकप्रक्रियैः। रथमुखानां रथमुख्यानां नेमिभिश्चक्रान्तैः॥ 5-32-32 द्वात्रिंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|